मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ८

संहिता

दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒ः सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

पदपाठः

दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ ।
इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । ए॒षा॒म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥

सायणभाष्यम्

हेद्यावापृथिव्यौ वयंदेवान् देवान्प्रतियत् कच्चित् आगोपराधंतत्तद्यागकालेतेषांतेषां अयागलक्षणं सदमित् सर्वदैवचकृमच कृतवन्तोवयं सखायंवाप्रियंमित्रंवाप्रतियच्चकृम जास्पतिं जाः पुत्र्यस्तासांप- तिंजामातरंवाजायापतिंप्रतिदोषारोपणकलहोत्पादनादिरूपंयत्सर्वदैवचकृम एषामुक्तरूपाणांपापा- नां अवयानमपगमंकर्तुमियंधीर्युष्मत्स्तुतिरूपमिदंकर्मभूयाः भूयात् भवतु द्यावेत्यादिगतम् अत्रसर्व- त्रप्रकारान्तरेणमन्त्रमन्तरेणरक्षतंरक्षतमितिप्रार्थनं तयोरश्विन्यादिबहुमननासंभवादुचितमेव तस्मा- त् स्वस्थानेएवस्थिते अनुकूलेभवतमित्येवप्रार्थ्यते ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः