मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् १०

संहिता

ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।
पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥

पदपाठः

ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒ऽश्रा॒वाय॑ । प्र॒थ॒मम् । सु॒ऽमे॒धाः ।
पा॒ताम् । अ॒व॒द्यात् । दुः॒ऽइ॒तात् । अ॒भीके॑ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः॑ऽभिः ॥

सायणभाष्यम्

सुमेधाः शोभनप्रज्ञोहंदिवेद्युदेवतायैपृथिव्यैपृथिवीदेवतायैतत्तत्प्रीतिकरंऋतंस्तोत्रंप्रथमं मुख्य- नामैतत् प्रतमंप्रकृष्टतमंअवोचंब्रवीमि किमर्थं अभिश्रावाय अभितःसर्वतःश्रवणाय किञ्च पितापाल- कोद्युलोकः मातासस्यादेर्निर्मात्रीप्रुथिवीचोभेअवद्यान्निन्दितात् दुरितात् दुःखप्रापकादंहसः सका- शात्पातां रक्षतां तथां अभीके अन्तिकनामैतत् समीपेएवावोभिरभिमततर्पणैः रक्षतांपालयताम् ॥ १० ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः