मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् १

संहिता

आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥

पदपाठः

आ । नः॒ । इळा॑भिः । वि॒दथे॑ । सु॒ऽश॒स्ति । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । ए॒तु॒ ।
अपि॑ । यथा॑ । यु॒वा॒नः॒ । मत्स॑थ । नः॒ । विश्व॑म् । जग॑त् । अ॒भि॒ऽपि॒त्वे । म॒नी॒षा ॥

सायणभाष्यम्

नोविदथेस्मदीयेयज्ञेसुशस्ति सुपोलुक् सुशस्तिभिः शोभनशंसनैःस्तुतिभिः इळाभिः प्रदेयैरत्नैःसह यद्वा इळाभिः तदाश्रितेषुताच्छब्द्यं भूमिस्थानाभिर्देवताभिःसहविश्वानरः सर्वप्राणिहितकार्यग्निः स- विताप्रेरकआदित्यश्चदेवआएतुआगच्छतु हेयुवानोनित्यतरुणायज्ञस्य मिश्रयितारोवायूयं नोस्मान् अभिपित्वेअभिपतनीयेस्मद्यज्ञेमनीषमनीषयामनसईशितृत्वेनस्वेच्छयेत्यर्थः अपिः संभावनायां अ- प्यस्मान् मत्सथ मादयथ तथाविश्वंजगत् एतत् स्थावरस्याप्युपलक्षणं यद्वाकृत्स्नंप्रपञ्चंमत्सथ तथा- स्मानपि यद्वा जगच्छब्दोयजमानरूपमनुष्यवाची सर्वानपियजमानान् यथामत्सथ तथेत्यर्थः ॥ १ ॥ वैश्वदेवेपशौआनोविश्वइत्येषाहविषः पुरोनुवाक्या आनोदेवानामुपवेतुशंसआनोविश्वआस्का- गमन्तुदेवाइति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः