मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ३

संहिता

प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑ः स॒जोषा॑ः ।
अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

पदपाठः

प्रेष्ठ॑म् । वः॒ । अति॑थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्तिऽभिः॑ । तु॒र्वणिः॑ । स॒ऽजोषाः॑ ।
अस॑त् । यथा॑ । नः॒ । वरु॑णः । सु॒ऽकी॒र्तिः । इषः॑ । च॒ । प॒र्ष॒त् । अ॒रि॒ऽगू॒र्तः । सू॒रिः ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकंप्रेष्ठंप्रियतमंसर्वेषामाह्वातृत्वात् हविर्वहनाच्चाग्निर्देवानां प्रियतमः तमतिथिंगृ- णीषेगृणेस्तौमि व्यत्ययेनमध्यमः केनसाधनेन शस्तिभिःशंसनैःस्तुतिभिः कीदृशोहंतुवणिस्तूर्णवनिः शीघ्रंसंभक्ता सजोषाः युष्माभिः सहप्रीयमाणः यद्वैतेअग्निविशेषणे यस्तुर्वणिः शीघ्रंयज्ञस्यसंभक्ता सजोषाः युष्माभिः सहप्रीयमाणः तमग्निंगृणीषे यथायेनप्रकारेणनोस्माकंवरुणः एतन्नामकोदेवःसु- कीर्तिः शोभनकीर्तिमानसत् सुकीर्तिंभिक्षेवरुणस्यभूरेरित्यादिमन्त्रवर्णेषुवरुणात्सुकीर्तिरेवेषणीया अरिगूर्तः अरिषुअदातृषुसदाशब्दितःअरीणां हननायोद्युक्तोवासूरिः प्रेरयितायंवरुणः इषश्चान्नानि पर्षत् पूरयेत् तथातमपिस्तुमइत्यर्थः ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः