मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ४

संहिता

उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥

पदपाठः

उप॑ । वः॒ । आ । ई॒षे॒ । नम॑सा । जि॒गी॒षा । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।
स॒मा॒ने । अह॑न् । वि॒ऽमिमा॑नः । अ॒र्कम् । विषु॑ऽरूपे । पय॑सि । सस्मि॑न् । ऊध॑न् ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकंनमसाहविषानमस्कारेणवाउपउपेत्य जिगीषा पापानांजिगीषया आईषेइच्छा मि इषगतावित्यस्यवेषतेर्वागत्याद्यर्थस्यलिटिउत्तमैकवचने इदंरूपं भजामि कस्मिन् कालेउषासान- क्ताअहनिरात्रौच यद्वा अहोरात्रदेवतेअप्यभिगच्छामि गतौदृष्टान्तः—सुदुघाधेनुरिव सुदोग्ध्रीधेनुर्य- था दोहायदोग्धुर्गृहमागच्छति तद्वत् किंकुर्वन् सस्मिन् समानेऊधन् ऊधसि उत्पन्नेविषुरूपेनानारूपे- पयसिक्षीरघृतादिके अर्कमर्चनीयमन्नंचरुपुरोडाशादिकंविमिमानः विविधंमिमानः कस्मिन्कालेसमा- नेअहत् षष्ठेहनिएकस्मिन्नेवाहनिसर्वदैववेत्यर्थः एकस्मिन्नेवाहनिसमानऊधस्युत्पन्ने नानारूपेपयसि- त्वदर्थंहविर्मिमानः उपगच्छामीत्यर्थः यद्वा सस्मिन् सर्वस्मिन्नूधसिफलाख्यक्षीरोत्पादकेयज्ञेनिमित्त- भूतेसतिविषुरूपेपयसिनानारूपेसोमलक्षणोदकेअर्कमन्नसाधनंस्तोत्रंविमिमानोहंयुष्मनभिगच्छामि ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः