मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ५

संहिता

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒ः शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑ः ।
येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥

पदपाठः

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ ।
येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥

सायणभाष्यम्

उतअपिच नोस्माकमहिः अन्तरिक्षगामीअहन्तावाअहीनोवाअहन्यमानोवाएतन्नामकोदेवः सए- वबुध्यः बुध्नंबन्धकमन्तरिक्षं तदर्हतीतिबुध्न्योन्तरिक्षचारीएतन्नामकोदेवोमयः सुखं कः करोतु करोते- र्लङिरूपं किञ्च पिप्युषीव इवशब्दएवार्थःपूरणोवा अस्मान् रसेनाप्याययन्तीसिन्धुर्नामनदीवेतिआ- गच्छतु तत्रदृष्टान्तः—शिशुंन यथाशिशुं प्याययन्तीगौर्गच्छतितद्वत् अपान्नपातं उदकानामपातयि- तारं वर्षकमेतन्नामकं यद्वोदकानांनप्तारंतृतीयंपुत्रंअद्भ्यओषधिवनस्पतयः तेभ्योग्निरितिनप्तृत्वं तादृ- शमग्निंयेनजुनामस्तुतिभिः संगछेम जुइतिसौत्रोधातुर्गत्यर्थः यंदेवं मनोजुवोमनोवेगः वृषणः वर्षका- मेघाश्वावहन्तिससुखंकरोतु ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः