मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ६

संहिता

उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषा॑ः ।
आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥

पदपाठः

उ॒त । नः॒ । ई॒म् । त्वष्टा॑ । आ । ग॒न्तु॒ । अच्छ॑ । स्मत् । सू॒रिऽभिः॑ । अ॒भि॒ऽपि॒त्वे । स॒ऽजोषाः॑ ।
आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽप्राः । तु॒विःऽत॑मः । न॒राम् । नः॒ । इ॒ह । ग॑म्याः ॥

सायणभाष्यम्

उतापिचत्वष्टादेवोपिनोस्मान् अच्छअभिप्राप्तुं इदानीमेनंयज्ञंवाआगन्तु आगच्छतु आगत्यचस्मत् सहार्थेप्राशस्त्येवावर्तते अत्रप्रशंसायां प्रशस्तंयथातथा अभिपित्वेअभिगन्तव्येयज्ञेनिमित्तभूतेसतिसू- रिभिःस्तोतृभिः ऋत्विग्भिः सजोषाः समानप्रीतिर्भवत्वितिशेषः तथावृत्रहावृत्रघातीइन्द्रःचर्षणिप्राः चर्षणयोमनुष्यायजमानाः कामैस्तेषांपूरकः तुविष्टमोबहुतमोमहत्तमः इहास्मिन्कर्मणिनरानृणांनो- स्माकमुक्तगुणोपेतः सन्नागम्याः आगच्छतु ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः