मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ७

संहिता

उ॒त न॑ ईं म॒तयोऽश्व॑योगा॒ः शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति ।
तमीं॒ गिरो॒ जन॑यो॒ न पत्नी॑ः सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥

पदपाठः

उ॒त । नः॒ । ई॒म् । म॒तयः॑ । अश्व॑ऽयोगाः । शिशु॑म् । न । गावः॑ । तरु॑णम् । रि॒ह॒न्ति॒ ।
तम् । ई॒म् । गिरः॑ । जन॑यः । न । पत्नीः॑ । सु॒र॒भिःऽत॑मम् । न॒राम् । न॒स॒न्त॒ ॥

सायणभाष्यम्

उतअपिचईंएनंतरुणंनित्ययुवानमिन्द्रंनोस्माकंमतयः बुद्धयोश्वयोगाः अश्वसमानप्राप्तयोरिहन्ति- आस्वदयन्ति स्तुवन्तीत्यर्थः तत्रदृष्टान्तः—गावोदोग्ध्र्योधेनवः शिशुंन शिशुमिववत्समिव तयथालि- हन्तितद्वत् तद्वेवाह तमींतमेवैनंनरांणांयजमानानां सुरभिष्टमंअतिशयेनसुरभिंजनयः फलस्योत्पाद- यित्र्योगिरः स्तुतयोनसन्तव्याप्नुवन्ति नसतिर्व्याप्तिकर्मा तत्रदृष्टान्तः—जनयोन उत्पादयित्र्यः पत्नीः पत्न्यः पतिमिव ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः