मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ८

संहिता

उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑ना॒ः स्मद्रोद॑सी॒ सम॑नसः सदन्तु ।
पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥

पदपाठः

उ॒त । नः॒ । ई॒म् । म॒रुतः॑ । वृ॒द्धऽसे॑नाः॒ । स्मत् । रोद॑सी॒ इति॑ । सऽम॑नसः । स॒द॒न्तु॒ ।
पृष॑त्ऽअश्वासः । अ॒वन॑यः । न । रथाः॑ । रि॒शाद॑सः । मि॒त्र॒ऽयुजः॑ । न । दे॒वाः ॥

सायणभाष्यम्

उतअपिचनोस्मदीयंईंइदानीमेनंयागंवा मरुतःस्मत् सहसदन्तुगछन्तु कुतोदेशात् रोदसी रोद- स्योः द्यावापृथिव्योःसकाशात् यद्वारोदस्यावपिगछन्ती कीदृशास्तेमरुतः वृद्धसेनाः प्रवृद्धबलाः सम- नसः समानमनस्काः पृषदश्वासः पृषद्वर्णाश्वाः पृषत्योमरुतामितियास्कः । अवनयोन यथैवनमनस्व- भावाः रथारंहणस्वभावाः रथवन्तोवा मत्व र्थोलुप्यते यद्वा अवनयोरक्षकारथाइवस्थिताः रिशाद- सः रिशाः शत्रवण् प्रत्तारः मित्रयुजोदेवान मित्रयुजोदेवान मैत्रीयुक्ताव्यवहर्तारऋत्विजइव यद्वा मैत्रीयुक्ताअन्येदेवायथागच्छन्ति तद्वत् ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः