प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।
अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेना॑ः ॥
प्र । नु । यत् । ए॒षा॒म् । म॒हि॒ना । चि॒कि॒त्रे । प्र । यु॒ञ्ज॒ते॒ । प्र॒ऽयुजः॑ । ते । सु॒ऽवृ॒क्ति ।
अध॑ । यत् । ए॒षा॒म् । सु॒ऽदिने॑ । न । शरुः॑ । विश्व॑म् । आ । इरि॑णम् । प्रु॒षा॒यन्त॑ । सेनाः॑ ॥
एषांमरुतांमहिनामहिमा वृष्टिलक्षणोयत् यस्मात् प्रचिकित्रेप्रज्ञायते यद्वैषांमहत्त्वेनयुक्तानराः चिकित्रेजानन्त्यनुष्ठेयं नुइतिपूरणः ततस्तेज्ञातारः सुवृक्ति सोपोलुक् सुष्टुतीनांप्रयुजः प्रयोगान् प्रयुञ्च ते अधअथप्रयोगानन्तरं यत् यस्मात् एषांसेनाःवृष्ट्युत्पादकाः विश्वंसर्वंभुवनं इरिणं ऊषरप्रदेशं यथा तथासर्वतः प्रुषायन्त उत्पादयन्ति तत्रदृष्टान्तः—सुदिनेमेघावरणादिरहितेदिने शरुर्न अन्धकारहिंस- कः प्रकाशइव सयथासर्वमावृणोति तथामरुत्सेनाअवृष्ट्यासर्वमूषरंकरोति यद्वामरुन्महिमावृष्टिर्भव- ति तदासस्यादिसमृद्धौसत्यांप्रयोगंकुर्वन्तियदायजन्ति तदामरुत्सेनाः सर्वांमहीमुंदन्तीत्येवंमहानुभा- वामरुतइतितेषांस्तुतिः ॥ ९ ॥