मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् १०

संहिता

प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ ।
अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥

पदपाठः

प्रो इति॑ । अ॒श्विनौ॑ । अव॑से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । स्वत॑वसः । हि । सन्ति॑ ।
अ॒द्वे॒षः । विष्णुः॑ । वातः॑ । ऋ॒भु॒क्षाः । अच्छ॑ । सु॒म्नाय॑ । व॒वृ॒ती॒य॒ । दे॒वान् ॥

सायणभाष्यम्

हेऋत्विजः अश्विनौएतन्नामकौदेवावुद्दिश्य अवसेस्मद्रक्षणायप्रोकृणुध्वं स्तुतिंप्रकर्षेणकृणुध्वं पूष- णंहि पोषकमेतन्नामकंदेवमप्यवसे प्रकर्षेणस्तुतिं कृणुध्वं किञ्च येस्वतवसः स्वायत्तबलाःसन्ति तान- पिप्रकृणुध्वं केते अद्वेषः द्वेषरहितोविष्णुर्व्याप्तः एतन्नामकोदेवः प्रथममनाहूतोपिनकुप्यतीतिवक्तुम- द्वेषइत्युक्तं तथावातः सर्वत्रसंचारीवायुःऋभुक्षाः पतिरिन्द्रश्चएतानपिप्रकृणुध्वं अतोहं स्वायत्तबलान् सर्वानपिदेवान् सुम्नायसुखायअच्छ आभिमुख्येनववृतीयस्तोत्रैरभिवर्तयेयम् ॥ १० ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः