पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।
यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥
अहमगस्त्यः नुक्षिप्रंपितुंपालकमन्नंस्तोषंस्तौमि महोमहान्तंधर्माणंसर्वस्यधारकंतविषीं बलत्मकं यद्वा महतोलोकस्यधारकंयस्यान्नस्यौजसाबलेनसामर्थ्येनत्रितोविस्तीर्णतमः प्रख्यातकीर्तिस्त्रिषुक्षि- त्यादिस्थानेषुतायमानोपीन्द्रः वृत्रंविपर्वंविच्छिन्नसन्धिकंयथातथाव्यर्दयत् हिंसितवान् ॥ १ ॥