मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ५

संहिता

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥

पदपाठः

तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ ।
प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥

सायणभाष्यम्

हेपितो पालकान्न त्येतेत्वदर्थिनोनरास्तवभोक्तारोभवन्तीतिशॆषः केतेनराः हेस्वादिष्ठस्वादुतम पितोपालक तवत्वदनुग्रहात् तेत्वांददतः प्रयच्छन्तोभवन्ति यद्वातेपितोइत्यादरार्थं अभ्यासेहिभूयां समर्थंमन्यन्ते किञ्च तवरसानां स्वाद्वम्लादीनांषण्णांस्वाद्मानः स्वादयितारोभक्षयितारएवतुविग्री- वाइव तुवीतिबहुनाम प्रवृद्धग्रीवाएवप्रेरतेप्रकर्षेणगच्छन्ति संचरन्ति इवशब्दएवकारार्थः पूरणोवा भूलोकेअत्तारएवदृढाङ्गाभवन्तीतिप्रसिद्धं अनशनेहिग्रीवाअधोलंबते यद्वा तवरसानामत्तारः असं- ख्यातग्रीवाइवभवन्ति रसानांबाहुल्यादितिभावः एवंबहुरसोपेतमन्नमितितस्यस्तुतिः ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः