मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ६

संहिता

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् ।
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥

पदपाठः

त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।
अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥

सायणभाष्यम्

हेपितो महानांपूज्यानांमहतांवादेवानामिन्द्रादीनांमनस्त्वेत्वयिहितंनिहितं अकारिकृतं अमृतं- विहायत्वय्येववर्तते हेपितो तवचारुस्मीचीनेनकेतुनात्वत्कृतेनप्रज्ञालक्षणेनअवसारक्षणेनाहिंमेघं- वृत्रंवाअवधीत् हत्वानिन्द्रः अन्नमयंहिसोम्यमनइतिश्रुतेः । अथवात्वत्केतुनाजगद्रक्षणेन निमित्तेने- तियोज्यं जगद्रक्षणार्थंहीन्द्रेणाहिर्भिद्यते ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः