मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ७

संहिता

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् ।
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥

पदपाठः

यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।
अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥

सायणभाष्यम्

हेपितोअन्न त्वांयद्यदाविवस्व सुपोलुक् अन्त्यलोपश्छान्दसः विवासनवतांविद्युद्रूपप्रकाशनवतां- उदकलक्षणधनवतांवापर्वतानांमेघानांसंबन्धिअदः प्रसिद्धंतदुदकं अजगन् अगमत् गच्छेत् अत्रचित् अस्मिन्कालेहेमधोहेपितोमाधुर्योपेतान्नत्वंनोस्मान् अरंअलंसंपूर्णंभक्षायभक्षणायगम्याः गच्छसन्नि हितोभव ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः