मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् १०

संहिता

क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

पदपाठः

क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

सायणभाष्यम्

करंभः यः करंभादिरूपःसक्तुपिंडोस्ति तदात्मकहेओषधेत्वंपीवः स्थौल्यवान् वृक्कः व्याधेर्वर्जयि- ताभव उदारथिः ऊर्ध्वगमनः इन्द्रियाणांउद्दीपयिताभव शिष्टोगतः ॥ १० ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः