मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् २

संहिता

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।
दध॑त्सह॒स्रिणी॒रिषः॑ ॥

पदपाठः

तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ ।
दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥

सायणभाष्यम्

तनूनपात् यज्ञशरीरस्यनपातयिता यद्वा आपोत्रतन्वउच्यन्तइत्युक्तत्वादपान्नपातयिता तासांन- प्तावा अद्भ्यओषधयः ओषधीभ्योग्नरितिनप्तृत्वं यज्ञःपूज्यः यज्ञनिर्वाहकत्वाद्वायज्ञः ईदृशोग्निः ऋतं- यज्ञंयते गच्छते अनुतिष्ठतेयजमानायतदभिमतार्थं मध्वामधुरेणआज्यसोमादिद्रव्येणसमज्यते सम्य- गक्तःक्रियते किंकुर्वन्नयं सहस्रिणीः एतत्संख्याकानि इषोन्नानिदधत् यजमानेभ्योधारयन् ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः