मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ३

संहिता

आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।
अग्ने॑ सहस्र॒सा अ॑सि ॥

पदपाठः

आ॒ऽजुह्वा॑नः । नः॒ । ईड्यः॑ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया॑न् ।
अग्ने॑ । स॒ह॒स्र॒ऽसाः । अ॒सि॒ ॥

सायणभाष्यम्

हेअग्ने अजुह्वानः अस्माभिराहूयमानःसन् ईड्योस्माभिःस्तुत्यः इड्नामकः त्वन्नोस्मदर्थंयज्ञि- यान् यज्ञभाजोदेवान् आवक्षि आवह हेअग्ने त्वं सहस्रसाअसि अपरिमितधनस्यदातासि ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः