मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ४

संहिता

प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।
यत्रा॑दित्या वि॒राज॑थ ॥

पदपाठः

प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् ।
यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥

सायणभाष्यम्

प्राचीनंप्रागग्रं सहस्रवीरं सहस्रसंख्याकावीराः शत्रूणांविशेषेणईरयितारोदेवायस्यतत्तादृक् यद्वा अपरिमितावीराः पुत्रायोयेनतादृक् बर्हिरोजसामन्त्रलक्षणबलेनोपेताऋत्विजःअस्तृणन् आच्छादयन् यत्रयस्मिन्बर्हिषि आदित्याःअदितेःपुत्रायूयं विराजथ विविधंराजध्वे तद्बर्हिरस्तृणन् ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः