मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ५

संहिता

वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।
दुरो॑ घृ॒तान्य॑क्षरन् ॥

पदपाठः

वि॒राट् । स॒म्राट् । वि॒भ्वीः । प्र॒ऽभ्वीः । ब॒ह्वीः । च॒ । भूय॑सीः । च॒ । याः ।
दुरः॑ । घृ॒तानि॑ । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

विराट् विशेषेणराजतइति व्यत्ययेनैकवचनं सम्राट् सम्यगतिपूज्यतरंराजमानाः अत्रापिव्यत्यये- नैकवचनम् विभ्वीर्विभ्व्योविविधंभवित्र्यः प्रभ्वीः प्रभ्व्यः प्रकर्षेणभवित्र्यः बह्वीर्बह्व्यः भूयसीः लोकप्रसिद्धसंख्याभिर्भूयस्यश्चयाःदुरोयज्ञगृहद्वारःसन्ति ताघृतान्युदकानिप्राण्युपकारार्थमक्षरन् क्षरन्ति यद्वा बह्वीर्भूयसीरित्येतेसंख्यवचने शिष्टानितासांनामधेयानि ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः