मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ६

संहिता

सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।
उ॒षासा॒वेह सी॑दताम् ॥

पदपाठः

सु॒रु॒क्मे॒ इति॑ सु॒ऽरु॒क्मे । हि । सु॒ऽपेश॑सा । अधि॑ । श्रि॒या । वि॒ऽराज॑तः ।
उ॒षसौ॑ । आ । इ॒ह । सी॒द॒ता॒म् ॥

सायणभाष्यम्

सुरुक्मे शोभनदीप्ताभरणे हिप्रसिद्धे सुपेशसाशोभनरूपे ईदृश्यावहोरात्रदेवतेअधिअधिकं श्रिया- सौंदर्येणविराजतः विशेषेणदीप्येते हियोगादनिघातः तादृश्यावुषसौ एतद्रात्रेरप्युपलक्षणं उषः शब्दोदिवसस्योपलक्षकः रात्रिरुषाश्चोभे इहास्मिन् दिनेआसीदतां आगत्यतिष्ठतांआगछतांवा ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः