मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ७

संहिता

प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥

पदपाठः

प्र॒थ॒मा । हि । सु॒ऽवाच॑सा । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥

सायणभाष्यम्

प्रथमा मुख्यनामैतत् प्रतमौप्रकृष्टतमौ हिप्रसिद्धौ सुवाचसाप्रियवचनौ दैव्यादेवार्हौ होतारादेवा- नामाह्वातारौहोमनिष्पादकौवा कवीमेधाविनावेतौनोस्मदीयमिमंयज्ञं यक्षतांयजतांगच्छतांवा ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः