मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ९

संहिता

त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे ।
तेषां॑ नः स्फा॒तिमा य॑ज ॥

पदपाठः

त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे ।
तेषा॑म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥

सायणभाष्यम्

त्वष्टायज्ञसाधनपात्राभिमानीदेवोरूपाणियोनौसृष्टानिरेतांसिरूपाणिकर्तुंप्रभुर्हि हिशब्दः श्रुत्य- न्तरप्रसिद्धिद्योतनार्थः योनौवैरेतसः सिक्तस्यत्वष्टारूपाणिविकरोतीतिश्रुतेः । सदेवोविश्वान्सर्वान- पिपशूनस्मदीयान् गवादिकान् समानजे सत्यगनक्ति व्यक्तीकरोति संपूर्वादनक्तेर्लिटितस्मान्नुडिति- नुट् अथप्रत्यक्षः तेषामक्तानांपशूनांस्फातिंवृद्धिंनोस्मदर्थमायज सर्वतःपूजय कुर्वित्यर्थः ॥ ९ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः