मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् १०

संहिता

उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्य॑ः सृज ।
अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥

पदपाठः

उप॑ । त्मन्या॑ । व॒न॒स्प॒ते॒ । पाथः॑ । दे॒वेभ्यः॑ । सृ॒ज॒ ।
अ॒ग्निः । ह॒व्यानि॑ । सि॒स्व॒द॒त् ॥

सायणभाष्यम्

हेवनस्पतेयूपाभिमानिदेव त्मन्याआत्मनैवदेवेभ्योग्न्यादिभ्यःपाथः पशुरूपमन्नंउपसृज उत्पादय यूपाभावेपशुनियोजनाभावेनहविषोभावात् त्वय्येवंकृतवतिसतिअग्निर्हव्यानिहवींषि सिस्वदत् स्वा- दयतु स्वादूकरोतु ॥ १० ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः