मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ११

संहिता

पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।
स्वाहा॑कृतीषु रोचते ॥

पदपाठः

पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ ।
स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥

सायणभाष्यम्

अयमग्निर्देवानांपुरोगाः असुरयुद्धंप्रतिपुरोगामी यद्वा देवानांमध्येयज्ञंप्रत्यग्निरेवपुरोगामी अत- एवाग्रणीत्वादेवाग्निशब्दोनिष्पन्नः अग्निः कस्मादग्रणीर्भवतीतिनिरुक्तम् । तादृशोयंगायत्रेण एतदु- पलक्षितमन्त्रेणसमज्यते सम्यक् लक्ष्यते स्वाहाकृतीषुस्वाहाकारेषुसत्सुहविः षुदीयमानेषु रोचते अत्यर्थंदीप्यते एताःप्रयाजदेवताः यज्ञावयवाभिमानिन्यः तद्द्वारायज्ञएवस्तूयतइतिकेषांचिन्मतं अग्ने- रेवनामान्तरमित्यन्ये ॥ ११ ॥

अग्नेनयेतिदशमंसूक्तमष्टर्चमागस्त्यंत्रैष्टुभमाग्नेयं अग्नेनयाष्टावाग्नेयमित्यनुक्रमणिका प्रातरनुवाका- श्विनशस्त्रयोस्त्रैष्टुभेछन्दसिविनियोगः अथैतस्याइत्यत्राग्नेनयाग्नेबृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्रउ- द्धरेदितिसूत्रितत्वात् अत्रशौनकः—उत्पथप्रतिपन्नोयोभ्रष्टोवापिपथः क्वचित् । पन्थानंप्रतिपद्येतकृ- त्वावाकर्मगर्हितम् ॥ १ ॥

अग्नेनयेतिसूक्तेनप्रत्यृचंजुहुयाद्घृतम् । जपेच्चप्रयतोनित्यमुपतिष्ठेतवानलमि- ति ॥ २ ॥

आद्याश्चतस्रः श्रवणाकर्मणिविनियुक्ताः श्रावण्यांपौर्णमास्यामित्यत्रसूत्रितम् अग्नेनयसुपथा- रायेअस्मानितिचतसृभिःप्रत्यृचंहुत्वेति आग्नेयेपशौवपापुरोडाशयोराद्येद्वेअनुवाक्ये तथाचसूत्रितम्- अग्नेनयसुपथारयेअस्मान् पाहिनोअग्नेपायुभिरजस्रैरिति आद्याप्रायणीयेष्टौआग्नेयस्यानुवाक्यासैवोद- यनीयेयाज्या तदहःप्रायणीयेष्टिरित्यत्रसूत्रितम्—अग्नेनयसुपथारायेअस्मानादेवानामपिपंथामगन्मे- तिविपरीताश्चयाज्यानुवाक्याइतिच ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः