मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ४

संहिता

पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।
मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥

पदपाठः

पा॒हि । नः॒ । अ॒ग्ने॒ । पा॒युऽभिः॑ । अज॑स्रैः । उ॒त । प्रि॒ये । सद॑ने । आ । शु॒शु॒क्वान् ।
मा । ते॒ । भ॒यम् । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । नू॒नम् । वि॒द॒त् । मा । अ॒प॒रम् । स॒ह॒स्वः॒ ॥

सायणभाष्यम्

हेअग्ने नोस्मानजस्रैः अनवरतैरविच्छिन्नैःपायुभिः पालनप्रकारैः पाहिपालय उतअपिच प्रियेस- दनेतवप्रियभूतेयागगृहे आसर्वतः शुशुक्वान् दीप्यमानोभवेतिशेषः किञ्च हेयविष्ठ युवतम तेतवजरि- तारं गरितारंस्तोतारंमांनूनमद्यभयंमाविदत् मालभतां माप्नोतु हेसहस्वःबलवन्नग्ने अपरमपरस्मि- न्काले भयंमाविदत् अपरंमदन्यंवामाविदत् ॥ ४ ॥ अच्युतायभौमायैकपालपुरोडाशहोमेमानोअग्नइत्यनयाआशयमभिजुहोति तथाच सूत्रितम्— मानोअग्नेवसृजोअघायेत्येनमाशयेनाभिजुहोतीति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०