मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ६

संहिता

वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम् ।
विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥

पदपाठः

वि । घ॒ । त्वावा॑न् । ऋ॒त॒ऽजा॒त॒ । यं॒स॒त् । गृ॒णा॒नः । अ॒ग्ने॒ । त॒न्वे॑ । वरू॑थम् ।
विश्वा॑त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒ऽह्रुता॑म् । असि॑ । हि । दे॒व॒ । वि॒ष्पट् ॥

सायणभाष्यम्

हेऋतजात यज्ञार्थमुत्पन्नाग्ने वरूथंवरणीयं त्वांतन्वे शरीरपोषायगृणानःस्तुवन् त्वावान् त्वयादे- वतयातद्वान् जनोविघयंसत् विमोचयतिखल्वात्मानं कस्मात्सकाशात् विश्वात्सर्वस्मात् रिरिक्षोर्हि- सितुमिच्छोश्चौरादेःसकाशात् उतवाअथवा निनित्सोः निन्दितुमिच्छ्तः हेदेव अभिह्रुतांआभिमुख्ये- नकुटिलंकुर्वतांद्विषां विष्पट् विशेषेणबाधकोसिहि अतस्त्वदनुग्रहादयंजनोवियंसत् ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११