मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ७

संहिता

त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।
अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥

पदपाठः

त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया॑न् । वि । वि॒द्वान् । वेषि॑ । प्र॒ऽपि॒त्वे । मनु॑षः । य॒ज॒त्र॒ ।
अ॒भि॒ऽपि॒त्वे । मन॑वे । शास्यः॑ । भूः॒ । म॒र्मृ॒जेन्यः॑ । उ॒शिक्ऽभिः॑ । न । अ॒क्रः ॥

सायणभाष्यम्

हेयजत्रयष्टव्याग्ने त्वंतान् यष्टृनयष्टृंश्चोभयान् मनुषोमनुष्यान् विविविच्यविद्वान् जानन् प्रपित्वेस- न्निहितएवकालेवेषि कामयसे यष्टृन् तथाकुर्वन् अक्रः आक्रमितात्वं मनवे षष्ठ्यर्थेचतुर्थी मनुष्यस्य- यजमानस्यअभिपित्वे अभिप्रप्तकालेअभिगमनवतियज्ञेवाशास्येवाशास्योभूः शिक्षणीयोभव इदंकु- र्विदंकुर्वितिविधेयोभव तत्रदृष्टान्तः—मर्मृजेन्यः शोधयितायजमानः उशिग्भिर्न कामयमानैरृत्वि- ग्भिरिव ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११