मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ३

संहिता

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।
अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥

पदपाठः

उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ ।
अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॑ । तुवि॑ष्मान् ॥

सायणभाष्यम्

अयंबृहस्पतिरुपस्तुतिंयजमानेनोपेत्यक्रियमाणांस्तुतिंनमसः हविर्लक्षणस्यान्नस्योद्यतिंउद्धारंच- श्लोकंअन्योयोमन्त्रविशेषोस्तितंचप्रयंसत् प्रकर्षेणयततेस्वीकर्तुं यजमानोवातत्सर्वंप्रयच्छत्यस्मै तत्र- दृष्टान्तः—सवितेव सूर्यइव सयथास्तोत्रादिकंस्वीकरोतितद्वत् यजमानप्रदानपक्षेसविता सर्वस्यप्रस- वितासूर्यइव सयथाबाहुभ्यः प्रकाशादिप्रयच्छतितद्वत् बाहूबाहुभ्यांयजमानोपीत्यर्थः तस्यमहत्त्वमा- ह—अरक्षसः स्वविरोधिरक्षोरहितस्यास्यबृहस्पतेः क्रत्वाकर्मणासामर्थ्येनाहन्योह्निसाधुर्यः सूर्यो- स्तिसभीमोमृगोन भयजनकःसिंहादिरिव भीमोभयहेतुस्तुविष्मान्बलवान् परिभ्रमतीतिशेषः यस्य- माहात्म्येनमन्त्राभिमानिनोबृहस्पतेः सामर्थ्यात् मन्देहाद्यसुरान् जित्वातितेजस्वीभवति तादृशोम- हानुभावोयजमानदत्तंहविरादिकंस्वीकरोतीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२