मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ५

संहिता

ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।
न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥

पदपाठः

ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः ।
न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥

सायणभाष्यम्

हेदेवबृहस्पते येपापाः पापबुद्धयः अल्पाः पज्राः हविर्लक्षणान्नवन्तः पापेनजीर्णावानराः भद्रंक- ल्याणंत्वात्वांउस्रिकं उस्रियेतिगोनाम कुत्सितामल्पक्षीरोत्स्राविणींगांजीर्णमनड्वाहंवामन्यमानाः उपजीवंति उपेत्यप्राणंति अल्पंयाचन्तइत्यर्थः दूढ्येदुर्धिये व्चनव्यत्ययः दुर्बुद्धिभ्यस्तेभ्योवामंवननी- यंधनंनानुददासि अनुकूलंनविरसि हेबृहस्पतेदेव पियारुंसोमपानशीलंसोमेनयष्टारं महाफलंलिप्सुं- चयसइत् गच्छस्येवअनुग्रहीतुं चयगतावित्यस्येदंरूपं यद्वा हेबृहस्पते पियारुंहिंसकं पीयतेर्हिसाकर्म- णइदंरूपं तंप्राणिहिंसकंचयसइत् हंस्येव बृहस्पतेयच्चातयसिदेवपीयुमितिनिरुक्तम् ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२