मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ७

संहिता

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्र॑ः ॥

पदपाठः

सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः ।
सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥

सायणभाष्यम्

यंबृहस्पतिंस्तुभः स्तोत्राणिअवनयोन सर्वाअवनयोभूमयोमनुष्यायथास्वामिनंकर्मप्रतिवासंयन्ति सङ्गच्छन्तितद्वत् यथासमुद्रंरोधचक्राः नदीनामैतत् रोधनशीलानिचक्राणियासु तास्तादृश्यः कूलंक्र- ममाणावास्रवतोन स्रवन्त्योनद्योयथायन्ति तद्वत् सर्वाअपिस्तुतयः त्वामेवप्राप्नुवन्ति गृध्रः गर्धनशी- लः वृष्टिमाकांक्षमाणः सबृहस्पतिः विद्वान् वक्ष्यमाणाभिज्ञस्तरः तरणंजलाभिवृद्धिं आपः उदकानि- चोभयंअन्तर्मध्येस्थित्वाचष्टे पश्यति करोतीत्यर्थः ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३