मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १

संहिता

कङ्क॑तो॒ न कङ्क॒तोऽथो॑ सती॒नक॑ङ्कतः ।
द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥

पदपाठः

कङ्क॑तः । न । कङ्क॑तः । अथो॒ इति॑ । स॒ती॒नऽक॑ङ्कतः ।
द्वौ । इति॑ । प्लुषी॒ इति॑ । इति॑ । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥

सायणभाष्यम्

कङ्कतः अल्पविषः कश्चिन्नकङ्कतः तद्विपरीतः अनल्पविषोमहारोगादिः तकतेर्गत्यर्थस्यवर्ण- व्यत्ययेनकङ्कतइतिसरन् भवति अथोअपिचसतीनकङ्कतः सतीनमित्युदकनाम सतीनंगहनमिति- तन्नामसुपाठात् उदकचारीअल्पविषवान् कश्चित् डुंडुभादिः एवंद्वावितिअल्पविषमहाविषभेदेनजल- स्थलभेदेन्वाद्विप्रकारौइतिप्लोषणावितिप्रकारद्वैविध्यदाहकत्वयोः प्रतिपादनायेतिकारद्वयं तथाअदृ- ष्टाअदृश्यमानरूपाः एतत्संज्ञकाश्चकेचित् विषधराएवमुक्तप्रकारायेसन्ति तेनूनंमान्यलिप्सत निः- शेषेणलिंपन्ति सर्वाण्यङ्गानिविषमावृणोति केनैवंकृतमितिनज्ञायतेइतिभावः ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४