मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ३

संहिता

श॒रास॒ः कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त ।
मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥

पदपाठः

श॒रासः॑ । कुश॑रासः । द॒र्भासः॑ । सै॒र्याः । उ॒त ।
मौ॒ञ्जाः । अ॒दृष्टाः॑ । वै॒रि॒णाः । सर्वे॑ । सा॒कम् । नि । अ॒लि॒प्स॒त॒ ॥

सायणभाष्यम्

अन्यांश्चविषहेतूनाह शरासः शरावेणुदण्डसदृशाअन्तश्छिद्रास्तृणविशॆषाः कुशरासः कुत्सितश- राः अल्पच्छिद्राः शरसदृशाः तृणविशेषाः दर्भासोदर्भाः कुशाः सैर्याः तटाकादिप्रान्तोद्भवाः तृणवि- शेषाः अश्ववालाइतिप्रसिद्धाः उतापिचमौञ्चाः मुञ्चाः प्रसिद्धाः बैरिणाः वीरणप्रकाराः एतेषुवर्तमा- नाः अदृष्टाः उक्तरूपाः सर्वेविषधराः साकंमिलित्वा न्यलिप्सत निलिपन्तिस्म ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४