मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ४

संहिता

नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत ।
नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥

पदपाठः

नि । गावः॑ । गो॒ऽस्थे । अ॒स॒द॒न् । नि । मृ॒गासः॑ । अ॒वि॒क्ष॒त॒ ।
नि । के॒तवः॑ । जना॑नाम् । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥

सायणभाष्यम्

गावोगोष्ठेन्यसदन् निषीदन्ति मृगासोमृगाः न्यविक्षत निविष्टाः स्वस्वस्थानउपरताः जनानांप्रा- णिनांकेतवः प्रज्ञानानि उपसर्गश्रुतेर्योग्यक्रियाध्याहारः नीचान्यभवन् एतस्मिन् समयेअदृष्टाअदृश्य- मानरूपाः सन्तोन्यलिप्सत निलिंपन्तिविशेषेण ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४