मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ५

संहिता

ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव ।
अदृ॑ष्टा॒ विश्व॑दृष्टा॒ः प्रति॑बुद्धा अभूतन ॥

पदपाठः

ए॒ते । ऊं॒ इति॑ । त्ये । प्रति॑ । अ॒दृ॒श्र॒न् । प्र॒ऽदो॒षम् । तस्क॑राःऽइव ।
अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । प्रति॑ऽबुद्धाः । अ॒भू॒त॒न॒ ॥

सायणभाष्यम्

त्येतेएतेसर्पाः प्रत्यदृश्रन् प्रतिदृश्यन्ते रात्रौश्वासादिलिङ्गेन उःपूरणः यद्वा तेरात्रौहन्तारः दिवा- एतेप्रतिदृश्यन्ते तत्रदृष्टान्तः—प्रदोषंरात्रिर्दोषारात्रिंप्रतितमसाभिभूतासुरात्रिषुतस्कराइव हिंसका- श्चोरादृश्यन्ते तथातद्वत् कीदृशास्ते अदृष्टाः अपरिदृश्यमानाः विश्वदृष्टाः विश्वंदृष्टंयैस्तेतादृशाः प्रति- दृश्यन्ते अतोहेनराः प्रतिबुद्धाअभूतन भवत ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४