मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ६

संहिता

द्यौर्व॑ः पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒ः स्वसा॑ ।
अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒ळय॑ता॒ सु क॑म् ॥

पदपाठः

द्यौः । वः॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । सोमः॑ । भ्राता॑ । अदि॑तिः । स्वसा॑ ।
अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । तिष्ठ॑त । इ॒ळय॑त । सु । क॒म् ॥

सायणभाष्यम्

अतः परंविषचिकित्सा तत्रतावत् हेसर्पाः वोयुष्माकंद्यौः पिता पृथिवीमातासोमोभ्राता अदिति- र्देवमातास्वसा एवंमहानुभावामहोरगाअदृष्टाः अन्यैरदृश्यमानरूपाः स्वयंतुविश्वदृष्टाः सर्वस्यद्रष्टा- रोयूयंतिष्ठतस्वस्थाने मांप्रतिमागच्छत सुसुतरांकंसुखंयथातथा इलयत ईरयतगच्छत सोमशब्देन- सोमाधारोद्युलोकउच्यते पृथिव्यन्तरिक्षद्युस्थानस्थाःसर्पाःस्वस्वस्थानंप्राप्नुत अस्मद्बाधांमाकुरुतेत्य- र्थः ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५