मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ७

संहिता

ये अंस्या॒ ये अङ्ग्या॑ः सू॒चीका॒ ये प्र॑कङ्क॒ताः ।
अदृ॑ष्टा॒ः किं च॒नेह व॒ः सर्वे॑ सा॒कं नि ज॑स्यत ॥

पदपाठः

ये । अंस्याः॑ । ये । अङ्ग्याः॑ । सू॒चीकाः॑ । ये । प्र॒ऽक॒ङ्क॒ताः ।
अदृ॑ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे॑ । सा॒कम् । नि । ज॒स्य॒त॒ ॥

सायणभाष्यम्

येअंस्याः अंसार्हाः अंसगाः अंसेभवाः अंसाभ्यांखादन्तोवा तथायेअंग्याः अङ्गाः अङ्गेनशरीरेण- हन्तारोवालूतिकादयः सूचीकाः सूचीदृशः पुच्छरोमाणोवृश्चिकाद्याः येचप्रकङ्कताः प्रकृष्टविषाः प्र- कृष्टगामिनोवामहोरगाः अदृष्टाः अदृश्यमानाः किञ्चन यत्किंचित् सर्पजातमस्ति इहास्मिन्समीपेवो- युष्माकंकिमस्ति अतःयूयंसर्वेसाकंसहनिजस्यत नितरांजस्यत मुञ्चतास्मान् जसुमोक्षणे दैवादिकः ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५