मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ८

संहिता

उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
अ॒दृष्टा॒न्त्सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्य॑ः ॥

पदपाठः

उत् । पु॒रस्ता॑त् । सूर्यः॑ । ए॒ति॒ । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ।
अ॒दृष्टा॑न् । सर्वा॑न् । ज॒म्भय॑न् । सर्वाः॑ । च॒ । या॒तु॒ऽधा॒न्यः॑ ॥

सायणभाष्यम्

असौसूर्यः पुरस्तात् पूर्वस्यांदिशिउत् उदेति कीदृशःसः विश्वदृष्टः विश्वेद्रष्टव्यायस्यसतादृशः अदृ- ष्टहादृष्टाविषविशेषाः विषधरविशेषावा तेषांहन्ता यद्वा अदृष्टंदर्शनमज्ञानंअन्धकारस्तस्यहन्ता सूर्ये- उदितेसतिसर्वेविषधराः विषाणिवापलायन्ते किंकुर्वन्नुदेतीतिचेदुच्यते—सर्वान् अदृष्टान्अद्रष्टव्यान्- विषराक्षसादीन् जंभयन् हिंसयन् तथासर्वायातुधान्यश्चयातवोयातनाः तीव्रवेदनाः तासांधात्रीरु- त्पादयित्रीर्महोरगीराक्षसीर्वाजंभयन् पुरस्तादुदेति अतोस्मत्तोनिजस्यतेतिसंबन्धः ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५