मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ९

संहिता

उद॑पप्तद॒सौ सूर्य॑ः पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥

पदपाठः

उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः॑ । पु॒रु । विश्वा॑नि । जूर्व॑न् ।
आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ॥

सायणभाष्यम्

असौपुरस्ताद्दृश्यमानःसूर्यः सर्वस्यप्रेरकआदित्यः उदपप्तत् ऊर्ध्वंगच्छति पततेर्लुङि पुमागमेरूपं किंकुर्वन् विश्वानिबहूनिविषाणि पुरुप्रभूतंजूर्वन् हिंसन् कीदृशोसौ पर्वतेभ्यः पर्ववद्भ्यः प्राणिभ्यः ते- षामुपकाराय आदित्यः विषोदकादीनामदनशीलः विश्वदृष्टः विश्वंदृष्टंयेनतादृशः अदृष्टहा अदृष्टानां- विषविशेषणांहन्ता एवंमहानुभावः सूर्यऊर्ध्वमारोहति अतोविषशङ्कानकार्या ॥ ९ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५