मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् ११

संहिता

इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् ।
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

पदपाठः

इ॒य॒त्ति॒का । श॒कु॒न्ति॒का । स॒का । ज॒घा॒स॒ । ते॒ । वि॒षम् ।
सो इति॑ । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

सायणभाष्यम्

इयत्तिकाइयत्तांकुर्वाणाइयत्तावतीवावालेत्यर्थः शकुन्तिका शकुन्तः शकुनः तस्यस्त्रीतां कपिञ्च- लीमाहुः सकासातेतवविषंजघास भक्षितवती साविषहर्त्रीतिप्रसिद्धा सोचित् साउइतिनिपात समु- दायएकंपदं सापिशकुन्तिकानम्रियते नित्यप्रतिपक्षत्वाद्विषस्य शिष्टंव्याख्यातचरं अनेनविद्यायांयद्दे- हावृतंविषंतस्यशकुनेभ्यआदित्यायचप्रदानमस्तीत्युक्तंभवति ॥ ११ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६