मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १२

संहिता

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।
ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

पदपाठः

त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् ।
ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

सायणभाष्यम्

त्रिःसप्त त्रिगुणिताः सप्तसंख्याकाविष्पुलिङ्गाकाः विविधाः ष्पुलिङ्गकाः सप्तसुजिह्वासुलोहि- तशुक्लकृष्णभेदेनैकविंशतिर्यासांताः यद्वा त्रिःसप्त एकविंशतिभेदाविष्पुलिङ्गकाः सूक्ष्मचटिकावि- षप्रतिपक्षभूताः विषस्यास्मदावरकस्यपुष्पंपोषमक्षन् अदन्तु नाशयन्तु ताश्चनमरन्तिनवयमपि शि- ष्टमविशिष्टम् ॥ १२ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६