मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १३

संहिता

न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् ।
सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

पदपाठः

न॒वा॒नाम् । न॒व॒ती॒नाम् । वि॒षस्य॑ । रोपु॑षीणाम् ।
सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

सायणभाष्यम्

नवानांनवतीनांनवाधिकानांनवतिसंख्याकानांनदीनां पुनःकीदृशीनां विषस्यास्मद्भ्यापकस्यस- र्वस्यविषस्यरोपुषीणां लोपयित्रीणांछेन्त्रीणांसर्वासामुक्तानांगङ्गादिनदीनांनामाग्रभं गृह्णामि सं- कीर्तयामि ग्रहेश्छान्दसेलुङि छान्दसश्च्लेर्लुक् हृग्रहोर्भः अस्ययोजनमित्यादिगतम् ॥ १३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६