मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १४

संहिता

त्रिः स॒प्त म॑यू॒र्य॑ः स॒प्त स्वसा॑रो अ॒ग्रुवः॑ ।
तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥

पदपाठः

त्रिः । स॒प्त । म॒यू॒र्यः॑ । स॒प्त । स्वसा॑रः । अ॒ग्रुवः॑ ।
ताः । ते॒ । वि॒षम् । वि । ज॒भ्रि॒रे॒ । उ॒द॒कम् । कु॒म्भिनीः॑ऽइव ॥

सायणभाष्यम्

त्रिःसप्त एकविंशतिसंख्याकाः मयूर्योमयूरस्त्रियः ताः विषकारिसर्पद्वेषिण्यइतिप्रसिद्धाः नागद्वे- षिगरुडपक्षादुत्पन्नत्वात् तथासप्त एतत्संख्याकाः सर्पणस्वभावाःस्वसारः स्वयमेवसरणाः अग्रुवः नदीनामैतत् गंगाद्याःप्रसिद्धाः सप्तनद्यः सन्ति तास्ते हेदेह तवविषंविजभ्रिरे विशेषेणहरन्तु तत्रदृ- ष्टान्तः—उदकंकुभिनीः कुंभीन्यःकुंभवत्यः कुंभेनजलहारिण्यइव तायथातद्धरन्ति तद्वन्नद्योमयूर्य- श्चातिप्रभूतंहरन्तु ॥ १४ ॥ अथपञ्चदशी—

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६