मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १५

संहिता

इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।
ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥

पदपाठः

इ॒य॒त्त॒कः । कु॒षु॒म्भ॒कः । त॒कम् । भि॒न॒द्मि॒ । अश्म॑ना ।
ततः॑ । वि॒षम् । प्र । व॒वृ॒ते॒ । परा॑चीः । अनु॑ । स॒म्ऽवतः॑ ॥

सायणभाष्यम्

इयत्तकःकुत्सितेयत्तः अल्पप्रमाणइत्यर्थः कुषुंभकःकुंपृथ्वीं सुंभति विलिखतीति सर्पाणांकुत्सितं- सुंभयितानिग्रहीतावाकुषुम्भकोनकुलः सतेविषंहरत्वितिशेषः यदिनतथासकरोति तकंकुत्सितंतन्नकु- लमश्मनाभिनद्मि विदारयामि विषनिर्हरणप्रयोगे यावद्विषापगमंतंपाषाणानुघातमनुतिष्ठन्तितद्वि- दः तदिदमत्रोक्तं ततः एवं प्र्योगेसति विषंप्रवावृते विषावृताद्देहाद्विषंप्रवर्तते निर्गच्छतु काःप्रति उच्यते पराचीः परागञ्चनवतीरतिदूरगाः संवतः संविभागवतीर्दिशः अनु अनुलक्षीक्रुत्यदिगन्तं प्रति- गच्छतु नमांप्रतिगच्छत्वित्यर्थः ॥ १५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६