मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् १६

संहिता

कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥

पदपाठः

कु॒षु॒म्भ॒कः । तत् । अ॒ब्र॒वी॒त् । गि॒रेः । प्र॒ऽव॒र्त॒मा॒न॒कः ।
वृश्चि॑कस्य । अ॒र॒सम् । वि॒षम् । अ॒र॒सम् । वृ॒श्चि॒क॒ । ते॒ । वि॒षम् ॥

सायणभाष्यम्

अध्यायोपाकर्णोत्सर्गेयोःकुषुंभकस्तदित्यन्त्याविनियुक्ता दधिसक्तून् जुहोतीत्युपक्रम्यकुषुम्भक- स्तदब्रवीदितिसूत्रितत्वात् । ॥ इतिप्रथमंमण्डलम् ॥ एवंमहानुभावेनागस्त्यमहर्षिणोच्यमानेसति गिरेः सकाशात्प्रवर्तमानकः प्रवर्तमानोतिशीघ्रम- भिगच्छन् कुषुंभकोनकुलः तदब्रवीत् तद्वाक्यमाचख्यौ किंत्दितिउच्यते—वृश्चिकस्यैतद्विषं अरसं असारं बाधकंनभवतीत्यर्थः तथा लोकेपिसप्रदष्टमपिक्रिम्यादिदंशनमेव अतोनबाधइतिहिवदन्ति एवमभिवचनेनसोपिनिर्विषोभवत् अथतंवृश्चिकंप्रतिनकुलआह हेवृश्चिक तेविषमरसं अतस्तमृषिं- किंकरिष्यति तस्मात्परिहरेति यदैवमवादीत् तदाप्रभृतिवृश्चिकविषमसारमभवत् एषाविषनिर्हरि- ण्युपनिषत् ॥ १६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६