मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १, ऋक् ५

संहिता

त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् ।
त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसु॑ः ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । त्वष्टा॑ । वि॒ध॒ते । सु॒ऽवीर्य॑म् । तव॑ । ग्नावः॑ । मि॒त्र॒ऽम॒हः॒ । स॒ऽजा॒त्य॑म् ।
त्वम् । आ॒शु॒ऽहेमा॑ । र॒रि॒षे॒ । सु॒ऽअश्व्य॑म् । त्वम् । न॒राम् । शर्धः॑ । अ॒सि॒ । पु॒रु॒ऽवसुः॑ ॥

सायणभाष्यम्

हेअग्ने त्वष्टाफलस्यसाधुसंपादयितात्वं विधतेपरिचरतेजनाय सुवीर्यंशोभनवीर्यंधनं तद्धेतुर्भवसि ग्नावः याः स्तुतिवाचः सन्ति तास्तव स्वभूताः हेमित्रमहः हितकारितेजः सजात्यं अस्माकंबान्धवंभ- जसइत्यर्थः हेअग्ने आशुहेमा आशुप्रेरयितात्वं स्वश्व्यंशोभनाश्वसमूहोपेतंफलं ररिषेददासि हेअग्ने पुरु- वसुः प्रभूतधनस्त्वं नरांनराणां शर्धोबलस्थानीयोसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७