मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २, ऋक् ३

संहिता

तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।
रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य॑म् ॥

पदपाठः

तम् । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ ।
रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥

सायणभाष्यम्

तंप्रसिद्धमुक्तगुणविशिष्टमग्निं देवाःप्रसिद्धाव्यवहर्तारऋत्विजोवा रजसोरंजनात्मकस्यलोकस्यबु- ध्नेमुलेपृथिव्यांवेद्यामित्यर्थः तत्रन्येरिरेनितरामीरयन्ति व्यापारयन्तिस्वस्वहविर्लाभायऋत्विक्- पक्षे स्तोत्रादिनानितरांगच्छन्तिभजन्ते कीदृशमित्याह सुदंससंशोभनदर्शनंदिवस्पृथिव्योः द्यावापृ- थिव्योः अरतिंईश्वरंगन्तारंव्याप्तंवा वेद्यंवेदोधनं तस्मैहितं रथमिवरथंयथास्वाभिमतलाभायाश्रय- न्तेतद्वत् यद्वा रथमिवप्राप्तिसाधनत्वेनवर्तमानंवेद्यंवेदितव्यं शुक्रशोचिषंदीप्तवर्णंअग्निंमित्रंन सखिवत् कार्यसाधकं यद्वा आदित्यमिव क्षितिषुयागभूमिषुमनुष्येषुवाप्रशंस्यंप्रकर्षेणस्तुत्यं एवंमहानुभावम- ग्निंन्येरिरइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०