मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् १

संहिता

हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् ।
मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥

पदपाठः

हु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् ।
मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

हेयजमानाःवोयुष्मदर्थं अग्निंहुवेआह्वयामि कीदृशंतं सुद्योत्मानं सुष्ठुद्योतमानंसुवृक्तिं सुवर्जि- तंपापैः शोभनस्तुतिंवाविशांयजमानानांअतिथिं अतिथिवत्सदापूज्यंसुप्रयसंशोभनहविर्लक्षणान्नं किञ्चजातवेदाः जातानांवेदितायोदेवोग्निर्मित्रइव सखेवआदित्यइववादिधिषाय्यः धारयिता भूत् भवति कुत्रेतिउच्यते आदेवेवपर्यन्तेजनेमनुष्यप्रभृतिदेवपर्यन्तेषु तेषांधारकोभवदित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४