मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४, ऋक् २

संहिता

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।
ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्व॑ः ॥

पदपाठः

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । द्वि॒ता । अ॒द॒धुः॒ । भृग॑वः । वि॒क्षु । आ॒योः ।
ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । भूम॑ । दे॒वाना॑म् । अ॒ग्निः । अ॒र॒तिः । जी॒रऽअ॑श्वः ॥

सायणभाष्यम्

इममग्निंविधन्तः परिचरन्तोभृगवोस्मत्पूर्वेमहर्षयः अपांसधस्थेसहस्थानेन्तरिक्षेआयोर्मनुष्य- स्ययजमानस्यस्वभूतासुविक्षुप्रजास्वृत्विक्षुतेषांमध्येचद्विताद्वयोःस्थानात् अदधुः अधारयत् दधाते- र्लुङिरूपं एषोग्निर्भूमभूम्नाअत्यर्थंविश्वानिभूतजातान्यस्मद्विरोधीन्यभ्यस्तुअभिभवतु सकीदृशः देवानामरतिरीश्वरः तेषांमध्येशीघ्रंअरणशीलोवास्मद्यागंप्रति तथाजीराश्वः क्षिप्राश्वः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४