आ यन्मे॒ अभ्वं॑ व॒नद॒ः पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् ।
स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥
आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् ।
सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥
यत् यस्याभ्वं महत्त्वंमेममसंबन्धिनोवनदः संभक्तारः यद्वा वनदःअवनदः भृशंशब्दयन्तः स्तोता- रः अवशब्दोभृशार्थवाचीतत्पूर्वान्नदेःक्विप् अवाप्योरित्यकारलोपः आपनन्त समन्तात् स्तुवन्ति सो- ग्निरुशिग्भ्योस्मदीयंरूपंकामयमानेभ्यः ऋत्विग्भ्योवर्णं स्वसदृशंरूपंनामिमीत नशब्दश्चार्थे निर्मिमी- तेच रंसु रमणीयेष्वाज्यादिहविःषुनिमित्तेषु चित्रेणभासाकनकादिनानावर्णया दीप्त्याचिकिते विज्ञा- यते किञ्च योग्निःजुजुर्वान् जीर्णःसन् ज्वालोपशमेसएवमुहुःपुनःपुनः आयुवासर्वतोमिश्रयितातरुणो- वाभूत् भवतिपुनराज्यादिसंयोगात् ॥ ५ ॥